|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
॥ श्रीः ॥
16.36. अध्यायः 036
अथ पुत्रदर्शनपर्व ॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
त्यक्तदेहानामपि कुरुपाण्डवपक्षीयाणां कथं पुनरागमनमिति जनमेजयप्रश्नस्य सोपपत्तिकमुत्तरदानम्॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
सौतिरुवाच।
एतच्छ्रुत्वा नृपो विद्वान्हृष्टोऽभूज्जनमेजयः।
पितामहानां सर्वेषां गमनागमनं तदा॥ 16-36-1(98134)
अब्रवीच्च मुदा युक्तः पुनरागमनं प्रति।
कथं न त्यक्तदेहानां पुनस्तद्रूपदर्शनम्॥ 16-36-2(98135)
इत्युक्तः स द्विजश्रेष्ठो व्यासशिष्यः प्रतापवान्।
प्रोवाच वदतांश्रेष्ठस्तं नृपं जनमेजयम्॥ 16-36-3(98136)
वैशम्पायन उवाच। 16-36-4x(8061)
अविप्रणाशः सर्वेषां कर्मणामिति निश्चयः।
कर्मजानि शरीराणि शरीराकृतयस्तथा॥ 16-36-4(98137)
महाभूतानि नित्यानि भूताधिपतिसंश्रयात्।
तेषां च नित्यसंवासो न विनाशो वियुज्यताम्॥ 16-36-5(98138)
अनाशया कृतं कर्म तस्य चेष्टः फलागमः।
आत्मा चैभिः समायुक्तः सुखदुःखमुपाश्नुते॥ 16-36-6(98139)
अविनाश्यस्तथा नित्यं क्षेत्रज्ञ इति निश्चयः।
भूतानामात्मभावो यो ध्रुवोसौ संविजानताम्॥ 16-36-7(98140)
यावन्न क्षीयते कर्म तावत्तस्य स्वरूपता।
क्षीणकर्मा नरो लोके रूपान्यत्वमुपाश्नुते॥ 16-36-8(98141)
नानाभूतास्तथैकत्वं शरीरं प्राप्य संहताः।
भवन्ति ते तथा नित्याः पृथग्भावं विजानताम्॥ 16-36-9(98142)
अश्वमेधश्रुतिश्चेयमश्वसंज्ञपनं प्रति।
लोकान्तरगता नित्यं प्राणा नित्या हि वाजिनः॥ 16-36-10(98143)
अहं हितं वदाम्येतत्प्रियं चेत्तव पार्थिव।
देवयाना हि पन्थानः श्रुतास्ते यज्ञसंस्तरे॥ 16-36-11(98144)
सुकृतो यत्र यज्ञस्ते तत्र देवा हितास्तव।
यदा समन्विता देवाः पशूनां गमनेश्वराः॥ 16-36-12(98145)
गमिमन्तश्च तेनेष्ट्वा नान्ये नित्या भवन्त्युत।
नित्येऽस्मिन्पञ्चके वर्गे नित्ये चात्मनि पूरुषः॥ 16-36-13(98146)
अस्य नाशं समायोगं यः पश्यति वृथामतिः।
वियोगे शोचतेऽत्यर्थं स बाल इति मे मतिः॥ 16-36-14(98147)
वियोगे दोषदर्शी यः संयोगं स विसर्जयेत्।
असङ्गे सङ्गमो नास्ति दुःखं भावि वियोगजम॥ 16-36-15(98148)
परापरज्ञस्त्वपरो नाभिमानादुदीक्षितः।
अपरज्ञः परां बुद्धिं स्पृष्ट्वा मोहाद्विमुच्यते॥ 16-36-16(98149)
अदर्शनादापतितः पुनश्चादर्शनं गतः।
नाहं तं वेद्मि नासौ मां न च मेऽस्ति विरागता॥ 16-36-17(98150)
येनयेन शरीरेणि करोत्ययमनीश्वरः।
तेनतेन शरीरेण तदवश्यमुपाश्नुते।
मानसं मनसाऽऽप्नोति शरीरं च शरीरवान्॥ ॥ 16-36-18(98151)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि षट्त्रिंशोऽध्यायः॥ 36 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-36-10 संज्ञपनं मारणम्॥ 7-36-11 नासौ मानादहङ्कारान्न च वेति विरागतामिति क.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|